ह्रस्वो भवति अभ्यासस्य। दुढौकिषते। तुत्रौकिषते। डुढौके। तुत्रौके। अडुढौकत्। अतुत्रौकत्। अभ्यासस्य अनचि। अभ्यासस्य यदुच्यते अनचि तद् भवति इति वक्तव्यम्। चराचरः। चलाचलः। पतापतः। वदावदः। हलादिः शेषो न भवति।
"डुढौकिषते, तुत्रौकिषते" इति। ढौकृ, त्रौकृ--इत्येताभ्यामनुदात्तेत्त्वादात्मनेपदिभ्यां सन्(), "पूर्ववत्सनः"
१।३।६२ इत्यात्मनेपदम्()। "अडुढौकत्(), अतुत्रौकत्()" इति। आभ्यामेव ण्यन्ताभ्यां लुङ्(), पूर्ववच्चङादिकार्यम्()। "डुढौके, तुत्रौके" इति। लिट, एकवचनम्(), तस्यैश्()।
"अभ्यासस्यानचि" इत्यादि।
अभ्यासस्य यत्? कार्यं विधीयते तदनचिपरे भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"वा चरिचलिपतिददोनामच्याक्याभ्यासस्य" (वा।६५८) इत्यागमविघानसामथ्र्याद्धलादिशेषेण न भवितव्यम्()। हलादिशेषे हि सत्यादेशस्यागमस्य च क()इआद्विशेषो नास्तीत्यादेशमेव विदध्यात्()।
एवञ्च--अभ्यासलोपाभावात्? पारिशेध्यादचोऽन्यत्रैव भविष्यति॥